Monday, November 6, 2017

भद्रगणितम् - ११ ।

नारायण पण्डित - गणितकौमुदी -पान ३६७
भद्रगणितम् - ११ ।
Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)

पूर्वोक्तोदाहरणयो: फले ४०।६४ अत्रेष्टावाद्युत्तरौ आ १ उ १ 'आदावादिं विलिखेत्'इत्यादिना जाता मुखपङ्क्ति: १।५।९।१३ अत्राऽन्त्याङ्क: १३ एकोन: १२ अङ्घ्रि: ३ अयं चुगुण: ३ अनेनान्त्याङ्को १३ युत:१६ आदियुत: १७ चरणशंख्यगच्छदलेन २ संगुणित: ३४ जातं मुख्याख्यफलम् । एतदिष्टफलादस्माद् ४० अपास्य शेषं ६ एतत् क्षेपफलम् । अज्ञातावाद्युत्तरी, चरणमितो गच्छ:, क्षेपफलं गणितम्।

न्यास: आ० उ ० ग ० ४ फ६ अत्र प्राग्वज्जातावाद्युत्तरौ सक्षेपौ क्षे ३ रु ०, क्षे३ रु १। शून्येन जातो ०।१ अत: श्रेढ्यङ्का: ०।१।२।३ एकेन जातौ । ३ अत: श्रेढ्यङ्का:३।०।३।६ श्रेढ्यङ्कान् मुखपङ्क्तौ क्रमेण संयोज्य जाताश्चरणादय: १।६।११।१६ वा २।५।१२।१९।
द्वितीयोदाहरणे फलम् ६४। उक्तादुत्तरेण जाता मुखपंक्ति: १।५।९।१३।

अत: प्राग्वन्मुखफलम् ३४ । अत: क्षेपफलम् ३० प्राग्वच्छ्श्रेढी आ ० उ ० ग ४ गणितम् ३० प्राग्वज्जातावाद्युत्तरौ सक्षेपौ क्षे ३ रु ६, क्षे २ रु १ शून्येन जातौ ६।१ एकेन ३।३ द्विकेन ०।५ क्रमेण जाताश्चरणादय: ७।१२।१७।२३ वा ४।११।१८।२२ वा १।१०।१९।२४।

अन्यावाद्युत्तरौ चेदन्ये चरणादयो भवन्ति । एवं बहुधा ।
अथवा चरणाद्युत्तरानयने लघुक्रियासूत्रम् ।

क्षेपफलं चरणात्दृतं
 लब्धं सैकं प्रजायते गच्छ: ।।२०।।

No comments:

Post a Comment