Wednesday, November 8, 2017

भद्रगणितम् - ५५।

नारायण पण्डित - गणितकौमुदी -पान ४११-४१२
भद्रगणितम् - ५५।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y99ec73p)
यावत् सप्तकुला: क्षततितले
यावच्चतु:सागरा
यावत् सूर्यमुखा ग्रहाश्र्च गगने
यावद् ध्रुवस्तारका: ।

स्थेयात् तावदियं सदोदितवती
श्रीकौमुदी कौमुदी-
पूरस्वच्छयश:प्रवाहसुभगा
नारायणेन्दो: स्तुता ।।३।।

नारायणाननसुधाकरमण्डलोत्थां
च तुर्यसूक्तिरचनामरतबिन्दुवृन्दाम् ।

प्रीत्यैव सज्जनचकोरगना; पिबन्तु
श्रीकौमुदीमुदितहृत्कुमुद: सदैताम् ।।४।।

गजनगरविमित १२७८ शाके
दुर्मुखवर्षे च वाहुले मासि ।

धातृतिथौ कृष्णदले 
गुरौ समाप्तिगतं गणितम् ।।५।।

इति श्रीसकलकलानिधिसीमन्नृसिंहनन्दनगणितविद्याचतुरानननारायणपण्डितविरचितायां गणितपाट्यां कौमुद्याख्यायां  भद्रगणितं नाम चतुर्दशो व्यवहार:

समाप्तेयं गणितकौमुदी ।

No comments:

Post a Comment