Friday, November 3, 2017

गणितकौमुदी - अङ्क-पाशम् -६

नारायण पण्डित - गणितकौमुदी 
अङ्क-पाशम् -६

पातालपङ्क्तौ सूत्रम् ।
सामासिकाख्यपङ्क्तेरध: खमेकाङ्कमालिखेच्च तत: ।।१५।।

उत्क्रमतोऽन्तिमतुल्य-
स्थानाङ्कैकेन संयुतोऽन्त्योद्ध्वर्व:।
तत्तत्पुरतो विलिखे-
देवं सर्वेष्वपि पदेषु ।।१६।।

अन्तिमतुल्यस्थानाऽभावे
सति संभवे यथायोग: ।

उदाहरणम् ।
समासे यत्र सप्त स्यु-
रन्तिमस्त्रिमित: सखे ।
कीदृशी तत्र पाताल-
पङ्क्तिका वद वेत्सि चेत् ।।४।।
---
(१) सामासाख्यपङ्क्तेरध: प्रथमाङ्काध: कं शून्यम लिखेत्, ततस्यदग्रे एकाङ्कमालिखेत् । तत उत्क्रमतोऽन्तिमाङ्कतुल्यस्थानाङ्कानामैक्येन ऊर्ध्व:
पातालपङ्क्तिस्थोऽन्त्योऽङ्क: संयुतोऽध:पङ्क्तौ तत्पुरस्तं योगाङ्कं विलिखेदेवं सरवपदेषु सर्वस्थानेषु विलिखेत् । अन्तिमतुल्यस्थानाभावे यथासंभव: स्यात् तथा योग: कारय: । उदाहरणं विलोक्यम् ।

No comments:

Post a Comment