Monday, November 6, 2017

भद्रगणितम् - १५ ।

नारायण पण्डित - गणितकौमुदी -पान ३७१
भद्रगणितम् - १५ ।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)

अथवा सूत्रम् ।
* कृत्वाभीष्टं भद्रं
तत्फलरहितेप्सितं तु चरणाप्तम् ।।२३।।
भद्रगृहाङ्केष्वाद्ये
लब्धं संयोज्यते भद्रम् ।
उदाहरणम् ।
भद्रं च षोडशगृहं कलितं यदङ्कै:
कै: कैश्र्च तच्छतमिहैव फलं प्रजातम् ।
यद्यस्ति भद्रगणितार्णवकर्णधार-
शक्तिस्तव द्रुततरं बहुधा प्रचक्ष्व ।।६।।
-----
* अत्रोपपत्ति:। 
भद्रकोष्ठेषु समाङ्का: क्षिप्यन्ते तदापि योग: सर्वत्र तुल्य एव । अतोऽभीष्टे भद्रे यत् फलं तत्फलेन रहितमभीष्टं फलं शेष एकस्मिन् चरणे संयोज्यते तदाऽभीष्टफलं भद्रं जायते। ततस्त्रैराशिकम् । 
चरणमितेषु कोष्ठेषु शेषसमा योजनाङ्कास्तदैक-

कोष्ठे किमिति लब्ध: सर्वकोष्ठेषु योजनाङ्क: । इति।

No comments:

Post a Comment