Tuesday, November 7, 2017

भद्रगणितम् - २६।

नारायण पण्डित - गणितकौमुदी -पान ३८२
भद्रगणितम् - २६।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/ybmsrb6u)
श्लिष्टकोष्ठेषु भद्रस्य
मध्यपङ्क्त्योरथो द्वयो: ।
निर्यास: कोष्ठपङ्क्त्यङ्क-
योगस्तिर्यगुपान्त्ययो: ।।३३।।

श्लिष्टकोष्ठस्य विधिने -
त्येवमङ्कप्रपूरणम् ।
अथ दक्षिणभद्रार्धं
मध्यकोष्ठगयोस्तयो: ।।३४।।

वामार्धश्रवणश्र्लिष्ट-
कोष्ठाङ्कानां कयोर्मिथ: ।
विपर्यासस्थिति: कार्या
दक्षिणश्र्लिष्टकर्णगौ ।।३५।।

अङ्कौ तयोर्विपर्यास:
फलपूर्त्यनुरूपत: ।
एवं विषमभद्रेऽस्मिन् 
 विधिर्नारायणोदित: ।।३६।।

उदाहरणम् ।
षटकभद्रं शतं यत्र रुद्राधिकं मित्र,
दृष्टं फलं तत् कथं ब्रूहि मे ।

No comments:

Post a Comment