Friday, November 3, 2017

गणितकौमुदी - अङ्क-पाशम् -७

नारायण पण्डित - गणितकौमुदी 
अङ्क-पाशम् -७

अत्र समास: ७ अन्तिमाङ्क: ३ ।
अत: सामासिका पङ्क्ति: १।१।२।४।७।१३।२४।४४
यथोक्तकरणेन जाता पातालपङ्क्ति: ०।१।२।५।१२।२६।५६।११८

गुणोत्तरपङ्क्तौ सूत्रम् ।
आदौ रूपं विलिखे-
दन्तिमगुणितं पुर:पुनस्तद्वत्।।१७।।
स्थानाधिकं तु यावत्
पङ्क्तिर्गुणकोत्तराख्येयम् ।

उदाहरणम् ।
अन्तिमाङ्कस्त्रयं यत्र
स्थानानि त्रीणि मे सखे ।
गुणोत्तराभिधा पङ्क्ति:
कीदृग्रूपा वद द्रुतम् ।।५।।

अत्रान्तिमाङ्क: ३ स्थानानि ३। यथोक्तकरणेन जाता गुणोत्तरा पङ्क्ति: १।३।९।२७

स्थानाहतोन्तिमाङ्क:
सैक: स्थानोनितश्च तच्छेषम् ।।१८।।

No comments:

Post a Comment