Monday, November 6, 2017

भद्रगणितम् - १८।

नारायण पण्डित - गणितकौमुदी -पान ३७४
भद्रगणितम् - १८।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)

छाद्याभिधानमन्यत्
करसंपुटवच्च संपुटो ज्ञेय: ।
इष्टादीष्टचयाङ्का
भद्रमिता मूलपङ्क्तिसंज्ञाद्या ।।२५।।

तद्वदभीप्सितमुखचय-
पङ्क्तिश्र्चान्या पराक्या स्यात् ।
मूलाख्यपङ्क्तियोगो-
नितं फलं परसमाससंभक्तम् ।।२६।।

लब्धहता परपङ्क्ति-
र्गुणजाख्या सा भवेत् पङ्क्ति: ।
मूलगुणाक्ये पङ्क्ती
ये ते भद्रार्धतस्तु परिवृत्ते ।।२७।।

ऊर्ध्वस्थितैस्तदङ्कै-
श्छादकसंछाद्ययो: पृथग् यानि ।
----
अत्रोपपत्ति: । छाद्यभद्रे ऊर्ध्वादरतिर्यक्कर्णकोष्ठानां 
युति: = इफ + अफ - इफ =अफ । ित्युपपद्यते ।

उदाहरणन्यासेन सर्वं स्फुटम् ।

No comments:

Post a Comment