Monday, November 6, 2017

भद्रगणितम् - १४ ।

नारायण पण्डित - गणितकौमुदी -पान ३७०
भद्रगणितम् - १४ ।
Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y87f8fa8)



प्रथमोदाहरणे फलम् ४० क्षेपफलम् ६ अत्र क्षेपफलार्धम् ३ शून्यक्षेपदलमितावादी ०।३ धनैकोत्तरमृणैकोत्तरन्यस्ते जातम्  १।३ एतौ
मुखपङ्क्ते: पूर्वदलपरदलयो:क्षेपौ शून्यं प्रथमदलस्थानद्वये प्रक्षिप्य जाताश्चरणादय: १।५।१२।१६ अथवैतौ प्राग्वत् प्रक्षिप्य जाताश्चरणादय: २।६।११।१५
द्वितीयोदाहरणे फलम् ६४ मुखपङ्क्ति: सैव १।५।९।१३ क्षेपफलम् ३० अत्र गच्छ: ८ शून्यादिक्षेपफलादि ०।१५ स्वमृणमेकोत्तरेण न्यस्ते जातम् ०।१५, १।१४,२।१३,३।१२,४।११,५।१०,६।९,७।८ प्राग्वन्मुखपङ्क्तौ प्रक्षिप्य जाताश्चरणादय: ।
एवमनेकधा । सर्वाणि भद्राणि चतुर्भद्रात् सिद्ध्यन्ति ।
।१।५।२४।२८।
।२।६।२३।२७।
।३।७।२२।२६।
।४।८।२१।२५।
।५।९।२०।२४।
।६।१०।१९।२३।
।७।११।१८।२२।
।८।१२।१७।२१।

----
तत: ( मु+१) + (मु'-१)=मु+मु'
=(मु+२) + ( मु'-२)
=(मु+३) +(मु'-३)
=...
गच्छस्थानमित:, इति सर्वमुपपद्यते ।
गच्छमानं तु (क्षे/२)(फ/ज) अत्र निरग्रलब्धेन सैकेन सममिति सफुटम् ।

No comments:

Post a Comment