Wednesday, November 8, 2017

भद्रगणितम् - ५४।

नारायण पण्डित - गणितकौमुदी -पान ४१०
भद्रगणितम् - ५४।

Ref:  http://sanskritdeepika.org/sandharb-sahitya (http://tinyurl.com/y99ec73p)
संक्षेपतो गणितजाड्यविनाशनानि
भद्राणि भद्रमतिदानि समीरितानि ।

नोक्तानि तानि घनवर्गपदात्मकानि
ग्रन्थप्रसारणभयाद् बहुलक्रियाणि ।।५५।।

आसीत् सौजन्यदुग्धाम्बुधिरवनिसुर-
श्रेणिमुख्यो जगत्यां
प्रख्य: श्रीकण्ठपादद्वयनिहितमना:
शारदाया निवास: ।

श्रौतस्मार्तार्थवेत्ता सकलगुणनिधि:
शिल्पविद्याप्रगल्भ: 
शास्त्रे शस्त्रे च तर्के प्रचुरतरगति:
श्रीनृसिंहो नृसिंह: ।।१।।

तत्सूनुरस्ति गणितार्णवकर्णधार:
श्रीशारदाप्रचुरलब्धवरप्रसाद: ।

नारायण: पृतुयशा गणितस्य पाटीं
श्रीकौमुदिति मुदे गुणिनां प्रचक्रे ।।२।।

No comments:

Post a Comment