Sunday, October 1, 2017

रेखागणितम् - प्रथमोध्याय: सप्तचत्वारिंशत्तमं क्षेत्रम् (१८)

 सप्तचत्वारिंशत्तमं क्षेत्रम् (१८) 
प्रकारान्तरम्।

कर्णस्य चतुर्भुजं त्रिभुजोपरि कार्यम्। दचिन्हात् दझलम्ब: अबोपरि कार्य:। हचिन्हात् हवलम्बौ दझरेकायां कार्य:। जअभुजो वर्द्धनीय:तचिन्हपर्यन्तम्। भुजद्वयान्तरवर्गरूपचतुर्भुजं मध्ये उत्पन्नम् ।

एवं चत्वारि त्रिभुजानि समानि जातानि। एतेषां मध्ये य: कश्र्चित्त्रिभुजद्वययोगो भुजद्वयघातसमानोऽस्ति। चतुर्णां त्रिभुजानां योग: द्विगुणेन भुजद्वयघातेन समोऽस्ति।

अयं भुजान्तरवर्गयुत: भुजद्वयवर्गसम: स्यात्।

यतोऽस्मिन् वअचतुर्भुजं युक्तं क्रियते तदा दजचतुर्भुजं भुजद्वयवर्गयोगसमानं भवति।।

No comments:

Post a Comment