Sunday, October 1, 2017

रेखागणितम् - प्रथमोध्याय: सप्तचत्वारिंशत्तमं क्षेत्रम् (७)

सप्तचत्वारिंशत्तमं क्षेत्रम् (७)
पुन: प्रकारान्तरम् ।
यदैकभुजचतुर्भुजं द्वितीयभुजचतुर्भुजे पातनीयं भवति तदा पूर्वोक्तप्रकारेण क्षेत्रमुत्पाद्यम् ।

पुनर्वकं वहतुल्यं कार्यम् । कलहलरेखे वझवदसमानान्तरे कार्ये क्रमेण। पुनस्तथा वर्द्धनीये यथा लचिन्हे संपातं करिष्यत:। तदा कलरेखा दहरेकायां मचिन्हे मिलिष्यति।

अथ त्रयाणां त्रिभुजानां साम्यात् हलअजयो: साम्यात् कोणानां साम्याच्च हलमत्रिभुजं जअनत्रिभुजं परस्परं समानम जातमिति निश्र्चितम् । पुनर्दकहझसमत्वेन दकमत्रिभुजं हझनत्रिभुजमन्योन्यसममिति निश्र्चितम् । तदा दवहत्रिभुजमलहत्रिभुजयोर्योग: वलचतुर्भुजहनझत्रिभुजयोगोऽस्ति।

अयं योगो बनजत्रिभुजेन सम:।दवहत्रिभुजं प्रथमयोगेन युक्तं कार्यं तदबत्रिभुजं द्वितीयेन योज्यं हदतनक्षेत्रं द्वयोर्योगयोर्युक्तं कार्यं यदि अबं अजादधिकं स्यात् । यदि न्यूनं तदैकं खण्डं पूर्वयोगे योज्यं द्वितीयं खण्डं न्यूनं कार्यम्।

तदा वलचतुर्भुजं वतचतुर्भुजं च दजचतुर्भुजेन समानं जातमिति सिद्धम्।।

No comments:

Post a Comment