Sunday, October 1, 2017

रेखागणितम् - प्रथमोध्याय: सप्तचत्वारिंशत्तमं क्षेत्रम् (२)

सप्तचत्वारिंशत्तमं क्षेत्रम् (२)
प्रकारान्तरेणाह ।।
तत्र त्रिभुजं कर्णस्य च चतुर्भुजं पूर्वकृतमेव स्तापितं अलरेखा च यथावस्थिता स्थापिता । पुनर्बझरूपं अबस्य चतुर्भुजम त्रिभुजोपरि स्थाप्यम् ।  ततोबअभुज: जअभुजतुल्योऽथवाऽधिकोऽथवा न्यून: स्यात् । तदा क्रमेण झचिन्हं जचिन्हे पतिष्यति वा अजरेखाया बहि: पतिष्यति अतवा अजरकायां पतिष्यति । पुनर्दवरेखा संयोज्या ।

तत्र अबवकोणो जबदकोण एतौ समकोणौ स्त: । पुनर्जबवकोणो द्वयो: समकोणयो: शोध्यते । तदा शेषं अबजकोणो वबदकोणश्र्चैतौ समानौ भवत: । पुन: अबं बवतुल्यमस्ति बजं बदतुल्यम् ।

अबजकोणो वबदकोणश्र्चैतौ समानौ जातौ। पुनर्बवदकोणो बअजकोणसमकोणसमानो जात: । तदा दवझरेखा एका सरला रेखा जाता । अबरेखाया: समानान्तरा च जाता । तया अलरेखायां तचिन्हे संपात: कृत: । नअजकोणो जवअकोणेन समानोऽस्ति ।


पुन: अझव: समकोणोऽस्ति । तदा तचिन्हं वचिन्हे भविष्यति । पुनर्दतजं सरलैका रेका भविष्यति यदा अबं अजतुल्यं भविष्यति । अथवा तचिन्हं वचिन्हे न भविष्यति अथवा अन्यच्चिन्हं भविष्यति ।


पुनरयदा अबं अजादधिकं स्यात् तदा तचिन्हं झवरेखोपरि पतिष्यति वा झवरेखाया बहि: पतिष्यति । एवं क्षेत्रत्रयेऽपि बअझवक्षेत्रं बअतक्षेत्रं समानं भविष्यति । एवं बअतदक्षेत्रं बनलदक्षेत्रं समानं भविष्यति तदा बअझवक्षेत्रं बनलदक्षेत्रसमानं भविष्यति ।
पुन: अनेन प्रकारेण अजभुजस्य चतुर्भुजं जलचतुर्भुजसमानं भविष्यति । 

No comments:

Post a Comment