Sunday, October 1, 2017

रेखागणितम् - प्रथमोध्याय: सप्तचत्वारिंशत्तमं क्षेत्रम् (१५)

सप्तचत्वारिंशत्तमं क्षेत्रम् (१५) 
पुन: प्रकारान्तरम् ।


एकभुजस्य चतुर्भुजं त्रिभुजे पतति। यदा भुजद्वयं समानं स्यात् तदा स्पष्टमेव। यदि अबं अधिकं स्यात् तदा चतुर्भुजं कार्यम् । दवरेका लग्ना कार्या। तदा दवझरेखा सरलैका रेखा जातेति निश्र्चितम्।

पुन: अजरेखा वरद्धनीया। तस्यां हचिन्हात् हमलम्ब: कार्य:। हललम्बश्र्च दझोपरि कार्य:। अबत्रिभुजं वबदत्रिभुजं लदहत्रिभुजं मजहत्रिभुजं चैतानि समानि जातानि। लमचतुरभुजमकचतुरभुजस्य समानमस्ति।

पुनरलहनत्रिभुजं दलहत्रिभुजेन जमहत्रिभुजेन च युक्तं कार्यम्। तदा दनहत्रिभुजं लमचतुर्भुजजनझत्रिभुजयोगेन अकचतुर्भुजेनापि जनझत्रिभुजयुक्तेन समानं जातम्। बदवत्रिभुजं प्रथमेन युक्तं कार्यम्। अबजत्रिभुजं द्वितीयेन युक्तं कार्यम्। शेषक्षेत्रं द्वाभ्यां युक्तं कार्यम्। तदेष्टमस्मदीयं प्रकटं स्यात्।

पुनर्यदा अबं न्यूनं स्यात् तदा चतुर्भुजं कार्यम्। दवरेखा लग्ना कार्या। पूर्वोक्तपरकारेणैवेदं निश्र्चीयते दहजमक्षेत्रं झजमत्रिभुजेन सार्द्धं अकचतुर्भुजेन समानमस्ति।

पुन: बदमत्रिभुजं अवचतुरभुजेन मजझत्रिभुजेन समानमस्तीतीष्टं प्रकटं जातम्।

No comments:

Post a Comment