Sunday, October 1, 2017

रेखागणितम् - प्रथमोध्याय: सप्तचत्वारिंशत्तमं क्षेत्रम् (३)

सप्तचत्वारिंशत्तमं क्षेत्रम् (३) 
पुन: प्रकारान्तरेणाह ।। 
तत्र कर्णस्य चतुर्भुजं त्रिभजोपरि पातनीयम् । अबभुजस्य चतुर्भुजं त्रिभुजाद्बहि: पातनीयम् । जअरेखा कार्या सा दचिन्हे संपातं करिष्यति।

यदा अबअजौ समौ स्त:। अथवा सा जअरेखा दहरेखायां कचिन्हे संपातं करिष्ति यदि अबं अजादधिकं स्यात् । अथवा दबरेखायां कचिन्हे संपातं करिष्यति यदि अबं अजान्न्यूनं स्यात्।

एवं प्रकारत्रयेऽपि अबोपरि बवलम्बो निष्काश्य:। दचिन्हात् बवोपरि दवलम्ब उपाद्य:। पुन: अकरेखा तथोत्पाद्या यथा दवरेखायां झचिन्हे संपातं करिष्यति। दवबत्रिभुजे अबजत्रिभुजे दबभुजो बजभुजतुल्य:। वकोण: अकोणतुल्य:। दबवकोणो जबअकोणतुल्यश्र्चास्ति। तदा अबबवभुजौ तुल्यौ स्याताम् । अबझवक्षेत्रम् अबभुजस्य समचतुरभुजं समकोणं भविष्यति त्रिभुजाद्बहि: पतिष्यति ।


पुनर्वदरेखा अलरेखा च तथा वरद्धनीया यथा तचिन्हे संपातं करिष्यति । तदा दबअतक्षेत्रं अबवझसमचतुर्भुजसमकोणक्षेत्रेण समानं जातम् । पुनर्दबअतक्षेत्रमं दबनलक्षेत्रसमानमस्ति ।

तदा अबभुजस्य समचतुर्भुजसमकोणक्षेत्रं दबनलक्षेत्रसमानं जातम् ।।

No comments:

Post a Comment