Sunday, October 1, 2017

रेखागणितम् - प्रथमोध्याय: सप्तचत्वारिंशत्तमं क्षेत्रम् (६)

सप्तचत्वारिंशत्तमं क्षेत्रम् (६) 
प्रकारान्तरेणाह ।
अबअजौ द्वौ भुजौ यदाऽधिकन्यूनौ स्त: अबभुजोपरि समकोणसमचतुर्भुजं न पात्यते यथा अजभुजस्य समकोणसमचतुर्भुजं अजोपरि न पातितं तदा बअभुजस्तथा वरद्धनीयो यथा जहभुजे वचिन्हे संपातम करोति ।

पुनर्हचिन्हात् दचिन्हाच्च बअरेखायां हझदतलम्बा उत्पाद्यौ। हझरेखा वरद्धनीया । पुनर्दचिन्हात् हझरेखायां दवलम्ब उत्पाद्य:। तकरेखा तबरेखातुल्या कार्या । पुन: कलरेखा तबरेखासमानान्तरा कार्या। एषा रेखा दबरेखायां मचिन्हे संपातं करिष्यति। पुनर्बचिन्हात् कलरेखायाम बललम्ब उत्पाद्य:। तदाअबजत्रिभुजं तदबत्रिभुजं वदहत्रिभुजं चैतानि समानि स्यु:। लतं समकोणसमचतुर्भुजं दझं समकोणसमचतुर्भुजं चैते अजभुजस्य बअभुजस्य वर्गरूपे स्त:।

पुनर्लबमत्रिभुजं अजनत्रिभुजं च मिथ: समानमस्ति। दमकत्रिभुजं हनझत्रिभुजं च समम् । तदा लबमत्रिभुजदवतत्रिभुजयोरयोग: लतक्षेत्रसमकोणसमचतुर्भुजहनझत्रिभुजयोर्योगोऽस्ति ।

अयं बनजत्रिभुजेन सम:। वदहत्रिभुजं प्रथमयोगे योज्यते तदबत्रिभुजं द्वितीययोगे योज्यते पुनर्दतनहक्षेत्रं द्वाभ्यां चेद्योज्यते यदा अबमजादधिकमस्ति। दनतहक्षेत्रस्य एकं खण्डं योज्यमपरं हीनं कार्यं यदा अबमजादूनमस्ति। तदा द्वे समकोणसमचतुर्भुजे कर्णस्य समकोणसमचतुर्भुजस्य समे भवत इत्युपपन्नम् ।

No comments:

Post a Comment