Friday, September 29, 2017

रेखागणितम् - प्रथमोध्याय: पञ्चचत्वारिंशत्तमं क्षेत्रम्

अथ पञ्चचत्वारिंशत्तमं क्षेत्रम् ।

तत्र कल्पितैकरेखोपरि चतुर्भुजं समानान्तरं तथा कर्त्तव्यमस्ति यथेष्टचतुर्भुजसमानंस्यात् तस्य च कोण: अभीष्टकोणसमान: स्यात् तस्यैकभुज: कल्पितरेखाभुजसमान: स्यात् ।

यथा हतरेखा कल्पिता अबजदं चतुर्भुजं कल्पितं लकोणश्र्च । बजकर्णेन अबजदचतुर्भुजस्य विभागद्वयं कारयम् । पुनर्हतरेखायां झहतकचतुर्भुजं अबजत्रिभुजसमं कार्यम् । हकोणो लकोणसम: कार्य: । झकरेखोपरि वझकमचतुर्भुजं बजदत्रिभुजसमं कार्यम्। वझककोणो लकोणसम: कार्य: ।

एष कोण: हजककोणेनसार्द्धं समकोणद्वयेन सम: । तदा हवरेखा एका सरला रेखा जाता । एवं तमरेखापि सरलास्ति । तदा हमचतुर्भुजं हतरेखोपरि अबजदचतुर्भुजेन समम हकोणस्तु लकोणेन समो जात; ।
इदमेवास्माकमभीष्टम् ।।

No comments:

Post a Comment