Wednesday, September 27, 2017

रेखागणितम् - प्रथमोध्याय: एकविंशतितमं क्षेत्रम्

अथैकविंशतितमं क्षेत्रम् । 
तत्र त्रिभुजैकभजोभयप्रान्तात् नि:सृते रेखै त्रिभुजान्तर्मिलिते तद्भुजयोर्योग: त्रिभजशेषभुजयोगान्न्यूनोऽस्ति  अथचान्तर्गतभुजरेखायोगोत्पन्नकोण: त्रिभुजशेषभुजद्वययोगकोणादधिकोऽस्ति ।।
यथा अबजत्रिभजे बजभुजोभयप्रान्तान्नि:सृते बदजरेखे दचिन्हे मिलिते स्त: । बदजदयोगो बअजअयोगान्न्यूनोऽस्ति ।पुनर्बदजकोणोबअजकोणादधिकोऽस्ति ।


अस्योपपत्ति: ।
तत्र बदरेखा हपर्यन्तं नेया । बअअहभजुयोगो बहादधिकोऽस्ति । पुनर्हजरेखा बअअहरेखायां युक्ता कार्या । हजं बहेऽपि युक्तं कार्यम् । तदा बअअजयोगो बहहजयोगादधिको जात: । पुनरपि दहहजयोगो दजरेखाया अधिकोऽस्ति । पुनर्बदं दहहजे युक्तं कार्यम् । दजेऽपि युक्तं कार्यम् । तर्हि बहहजयोगो बददजयोगादधिको भविष्यति । तस्मात् बअअजयोगो बददजयोगादधिकोऽस्ति तदा बअअजयोगो बददजयोगादत्यन्तमधिको भविष्यति । पुनर्बदजकोणो दहजकोणादधिकोऽस्ति । दहजकोणोऽपि बअजकोणादधिक: । तस्मात् बदजकोणो बाजकोणादत्यन्तमधिको जात: । इदमेवास्माकमभीष्टम् ।।

पुनरद्वितीयप्रकारेणोच्यते ।
तत्र बददजयोगो बअअजयोगाद्यदि न्यूनो न भवति तदा समानोऽथवा धिक: स्यात् । तत्र बददजरेखयोरन्यतरैका रेखा बअअजरेखयोरन्यतरैकरेखाया अल्पास्ति वा न वा । यद्यल्पास्ति तदा जदंजअरेखाया अल्पमस्तीति कल्पनीयम् । बदबअरेखयोरन्तरतुल्या अझरेखा भिन्ना कार्या । तदा झचिन्हं हचिन्हे न पतिष्यति । यदि पतिष्यति तदा बअअहयोगो तदा बहरेखात: न्यूनो भविष्यति इति बाधितम् । यतो भुजद्वययोगस्तृतीयभुजादधिकोऽस्ति ।

पुनर्झचिन्हं हजरेखायामपि न पतिष्यति । यदि पतिष्यति तदा बअअहयोगो बहरेखात: अत्यल्प: स्यात् । इदं बाधितम् । तर्हि झचिन्हं अहरेखायां भविष्यति । पुनर्झदरेखा कार्या । झबरेखा च कार्या । बदरेखाबअअझरेखायोगतुल्या बझादधिकास्ति । तदा बझदकोण: बदझकोणादधिको जात: । बदं बअअझयोगेन तुल्यं स्थितं तर्हि जदं जझेन तुल्यमधिकं वा स्थास्यति । तस्मात् जझदकोण: जदझकोणेन तुल्यो वाधिक: स्यात् । यदि जदं जझादधिकम स्यात् जझदकोणश्र्च जदझकोणेन तुल्य: स्यात् । यदि जदं जझादधिकं स्यात् तदा जझदकोणो जदझकोणादधिको भविष्यति । तदनन्तरं बझजकोणो बदझकोणजदझकोणयोगान्महान्स्यात् । इदं बाधितम् ।

यतो बदझकोणजदझकोणयोयोर्योग:  समकोणद्वयादधिकोऽस्ति । ततो बझजकोणौऽपि समकोणद्वययोगादधिकोऽस्ति । ततो बझजकोणौऽपि समकोणद्वययोगाददिको जात: ।इदं  बाधितम् ।
 त्रिभुजैककोणस्य समकोणद्वययोगादत्यल्पतवात् ।

पुन: जदभुज: जअभुजादल्पो न भविष्यति बदरेखा बअरेखायाश्र्च अल्पा न भविष्यति चेत् तदा समाना वा अधिका भविष्यति । तत्र अदरेखा कार्या । यथा पूर्वमुपपत्त्या साधितं तथात्रापि साध्यते । तद्यथा । बअजकोण: बदअजदअकोणयोर्योगेन समान: अतवाऽधोक: स्यात् । पक्षद्वयेऽपि इदमनुपपन्नम् । यत: बदअजदअकोणयोर्योग:
समकोणद्वयादधिकोऽस्ति । बअजकोणस्तु त्रिभुजस्यैककोणोऽस्ति ।
अयं समकोणद्वयाधिको जात इति बाधितम् । त्रिभुजे कोणद्वययोग: समकोणद्वयान्न्यून एव भवतीति नियमोऽस्ति । तस्मात् बददजरेखायोगोबअअजरेकायोगान्न्यूनोऽस्ति।
अथ अदरेखा वपर्यन्तं नेया । तत्र बदवकोण: बअदकोनादधिकोऽस्ति । जदवकोणश्र्च जअदकोणादधिकोऽस्ति । तस्मात् बदजकोण: बअजकोनादधिक: सिद्ध:।
इदमेवास्माकमभीष्टम् ।।

No comments:

Post a Comment