अथ पञ्चविंशतितमं क्षेत्रम् ।
तत्रैकस्य त्रिभुजस्य भुजद्वयं द्विथियत्रिभुजस्य भुजद्वयेन समान: प्रथमस्य तृतीयभुजश्र्च द्वितीयस्य तृतीयत्रिभुजाददिकस्तदा प्रथमत्रिभुजस्य समानभुजद्वयोत्पन्नकोणो द्वितीयत्रिभुजस्य भुजद्वयान्तर्गतकोणादधिक: स्यात् ।
यथा एकं अबजत्रिभुजं द्वितीयं दहझत्रिभुजं तत्र अबभुजो दहभुजेन तुल्य: । अजभुजो दझभुजेन तुल्य: । बजभुजोऽपि हझभुजादधिक: ।
तदा बअजकोणो हदझकोणादधिक: स्यात्। यदि तुल्यस्तदा बजभजो हझभुजतुल्य: स्यात् । इदं बाधितम् । अथ च यदि न्यूनस्तदा बजभुजो हझान्न्यून: स्यात् । इदमपि बाधितम् । यतो बजभुजो हझभुजादधिकोऽस्ति । तस्माद्बअजकोणो हदझकोणादधिको जात इति सिद्धम् ।।
पुन: प्रकारान्तरम् ।
दं केन्द्रं कृत्वा दझव्यासार्धेन झववृत्तं कारयम् । हझं तपर्यन्तं नेयम् । हतं बजतुल्यं कार्यम् । पुन: हं केन्द्रं कृत्वा हतव्यासार्धेन तववृत्तं कार्यम् । वृत्तद्वयसंपातो वचिन्हे भवति । दवरेखा हवरेखा च कार्या । तदा हदवत्रिभुजस्य त्रयो भुजा: बअजत्रिभुजस्य भुजत्रयेण समाना जाता: । कदवकोणश्र्च हदझकोणाददिक इति सिद्धम् ।

No comments:
Post a Comment