Friday, September 29, 2017

रेखागणितम् - प्रथमोध्याय: एकचत्वारिंशत्तमं क्षेत्रम्

अथैकचत्वारिंशत्तमं क्षेत्रम् । 


चतुर्भुजं त्रिभुजं चैकदिश्येकबुजोपरिस्थितमं द्वयो: समानान्तररेखयोर्मध्यवर्तिं भवति तदा चतुर्भुजं त्रिभुजात् द्विगुणं भवति ।
यथा अबजदचतुर्भुजं हबजचतुर्भुजं बजभुजोपरि अहबजसमानान्तररेखयोर्मध्यवर्त्यस्ति । तस्मात्रिभुजाद्विगुणं जातम् ।

अत्रोपपत्ति:।
अजरेखा कार्या । एवं अबजदचतुर्भुजं अबजत्रिभुजाद्द्विगुणमस्ति। पुन: अबजत्रिभुजं हबजत्रिभुजेनसमानमस्ति । तदा अबजदचतुर्भुजं हबजत्रिभुजादद्विगुणं जातम् ।
चतुर्भुजं त्रिभुजं च द्वयो: समयोर्भुजयोरुपरि स्थितमेकदिशि द्वयो: समानान्तररेखयोर्मध्यवर्त्ति भवति तदापि चतुर्भुजं त्रिभुजाद्द्विगुणम भवति ।।

No comments:

Post a Comment