Sunday, September 24, 2017

रेखागणितम् - प्रथमोध्याय: पञ्चदशं क्षेत्रम्

अथ पञ्चदशं क्षेत्रम् ।
तत्र रेखाद्वयसंपातादुत्पन्नम कोणचतुष्ट्यं तेषु परस्परसन्मुखं कोणद्वयं समानं भवति ।
यथा अबरेखाजदरेखाभ्यां हचिन्हे संपात: कृत: । तत्र जहबकोणअहदकोणौपरस्परसन्मुखौ समानौ स्त: ।
कुत: ।

बहजकोणजहअकोणयोर्योग: समकोणद्वयतुल्योऽस्ति ।
पुनर्जहअकोणअहदकोणयोर्योगोऽपि समकोणद्वयसमानोस्ति ।
जहअकोणश्र्चोभयो: कोणयोर्मिलितोस्ति स दूतीक्रियते चेत्तदा बहजकोणअहदकोनावपि शेषौ समानौ स्त: ।
तदा रेखाद्वयसणपातात् उत्पन्नं कोणचतुष्ट्यं चतुर्भि: समकोणै समानं जातम् ।
इदमेवास्माकमिष्टम् ।
अथ च यस्मिश्र्चिन्हे यावत्यो रेखा मिलितास्तत्रोत्पन्ना ये कोणास्ते चतुर्णि: समकोणै: भवन्ति ।।

No comments:

Post a Comment