Sunday, September 24, 2017

रेखागणितम् - प्रथमोध्याय: अष्टादशं क्षेत्रम्

अथाष्टादशं क्षेत्रम् ।
तत्र त्रिभुजे बृहद्भुसन्मुख: कोन: लघुभुजसनमुखकोणान्महान् भवति ।
यथा अबजत्रिभजे अबभुज: अजभुजान्महानस्ति ।
तस्माज्जकोण: बकोणादधिको भविष्यति ।


कुत: ।
यदि अबभुजे अजतुल्यं अदं पृथक् क्रियते जदरेखा च क्रियते तदा अदजकोणअजदकोणौ समानौ भवत: ।
अदजकोणस्तु अबजकोणान्महानस्ति । अजदकोणोऽपि महानस्ति ।
पुन: अजबकोणोऽपि अजदकोणादधिकोऽस्ति ।
तस्मात् अजबकोण: अबजकोणादतिमहान् जात: तदेवमुपपन्नम् ।

पुन: प्रकारान्तरम् ।
अजरेखा दपर्यन्तं नेया। अबतुल्यं अदं च कार्यम् । दबरेखा च कार्या । तत्र अबदकोण अदबकोणौ समानौ स्त: । अबदकोणस्तु अबजकोणान्महानस्ति । अदबकोणोऽपि अबजकोणान्महानस्ति । पुन: अजबकोण: अदबकोणादधिकोऽस्ति । तस्मात् अजबकोण: अबजकोणादतीव महान् जात:। तदेवमुपपन्नं यथोक्तम् ।।

पुन: प्रकारान्तरम् ।
अंकेन्द्रं कृत्वा अबव्यासार्द्धेन बदवृत्तं कार्यम् । बजरेखा वृत्तलग्ना दपर्यन्तं नेया । अदरेखा च कार्या । अबदत्रिभुजे बकोणदकोणौ समानौ स्त: । अजबकोणादप्यधिकोभविष्यति । इदमेवेष्टमस्माकम् ।।

No comments:

Post a Comment