Wednesday, March 7, 2018

संस्कृत धातव: - ५

प्रथमगणे - भ्वादौ १०७९ धातव: सन्ति ।

तत्र प्रधानभूता: धातव: यथा - 

।।आत्मनेपदिन: ।।
१०३ अय् गतौ अयते ।
१०४ ईह् इच्छायाम् ईहते ।
१०५ ईक्ष् दर्शने ईक्षते ।
१०६ ऊह् वितर्के ऊहते ।
१०७ एध् वृद्धौ एदते ।
१०८ कत्त् श्र्लाघायाम् कत्थते ।
१०९ कम्(कामय्० कान्तौ कामयते ।
११० कल्प(कल्प्) सामर्थ्ये कल्पते ।
१११ गर्ह् कुत्सायाम् गर्हते ।
११२ ग्राह् बिलोदने गाहते ।
११३ ग्रस् अदने ग्रसते ।
११४ घत् चेष्टायाम् घतते ।
११५ चेष्ट् चेष्टने चेष्टते ।
११६ जरम्ब् गात्रविनामे जृम्बते ।
११७ डी(दय्) विहायसा गतौ डयते ।
११८ त्रप् लज्जायाम् त्रपते ।
११९ त्रै(त्राय्० पालने त्रायते ।
१२० त्वर् सम्भ्रमे त्वरते ।
१२१ दय् प्रसादे दयते ।
१२२ द्यत(द्यौत्० दीप्तौ द्योतते ।
१२३ प्रथ् प्रख्याने प्रथते ।
१२४ बाध् विलोदने बाधते ।
१२५ भाष् व्यक्तायां वाचि भाषते ।
१२६ भास् दीप्तौ भासते ।
 १२७ भिक्ष् याच्नायां भिक्षते ।
१२८ भ्राज् दीप्तौ भ्राजते ।
१२९ मुद्( मोद्) हर्षे मोदते ।
१३० यत् प्रयत्ने यतते ।
१३१ रभ् (आराभस्ये आरभते ।
१३२ रम् क्रीडायाम् रमते ।
१३३ रुच्(रोच्) दीप्तौ रोचते ।
१३४ लङ्घ् गतौ लङ्घते ।
१३५ लभ् प्राप्तौ लभ्ते ।
१३६ लोक् दर्शने लोकते ।
१३७ वन्द् अभिवादने वन्दते ।
१३८ वल् सञ्चलाने वलत ।
१३९ वृर्त्(वर्त्) वर्तने वर्तते ।
१४० वृध्(वर्ध्) वृद्धौ वर्धते ।
१४१ वेप् कम्पने वेपते ।
१४२ वेष्ट् वेष्टने वेष्टते ।
१४३ व्यथ् भयचलनयौ; व्यथते ।
१४४ शङ्क् शङ्कायाम् शङ्कते ।
१४५ शिक्ष् विद्योपादने शिक्षते ।
१४६ शुभ्(शोभ्) दीप्तौ शोभते ।
१४७ श्र्लाघ् कत्थने श्र्लाघते ।
१४८ सह् मर्षणे सहते ।
१४९ सूद् हिंसायाम् सूदते ।
१५० स्पन्द् किञ्चिच्चलने स्पन्दते ।
१५१ स्पर्ध् संघर्षे स्पर्धते ।
१५२ स्यन्द् प्रस्रवणे स्यन्दते ।
१५३ स्वज् परिप्वङ्गे स्वजते ।
१५४ स्वद् आस्वादे स्वदते ।
१५५ स्रंस् अवस्रंसने स्रंसते ।
१५६ ह्लाद् सुखे ह्लादते ।
१५७ क्षम् सहने क्षमते ।

।।उभयपदिन:।।
१५८ खन् अवदारणे पप खनति, आप खनते ।
१५९ नी(नय्) प्रापणे पप नयति आप नयते ।
१६० धागति शद्ध्यो: धावति, धावते ।
१६१ पच् पाके पचति, पचते।
१६२ बुध्(बोध्) बोधने बोधति, बोधते ।
१६३ भज् सेवायाम् भजति, भजते ।
१६४ भृ(भर्) भरणे भरति, भरते ।
१६५ यज् देवपूजायाम् यजति, यजते ।
१६६ याच् याच्ञायाम् याचति, याचते ।
१६७ राज् दौप्तौ राजति, राजते ।
१६८ वप् बीजसन्ताने वपति, वपते ।
१६९ वह् प्रापणे वहति, वहते ।
१७० वे(वय्) तन्तुसन्ताने वयति, वयते ।
१७१ शप् आक्रोशे शपति, शपते।
१७२ श्रि(श्रय्) सेवायाम् श्रयति, श्रयते ।
१७३ हृे(हृय्) आह्वाने ह्वयति, ह्व्यते ।
।।इति भ्वादि:।।

No comments:

Post a Comment