Wednesday, March 7, 2018

संस्कृत धातव: - ८

दशमगणे चुरादौ ४१० धातव: सन्ति । तत्र प्रधानभूता: धातव: यथा -

 ।। आत्मनेपदिन:।।

     धातु:    अर्थ:    लट् प्र.पु.ए.
१ अर्थ् याच्ञायाम् अर्थयते ।
२ कुत्स् अवक्षेपणे कुत्सयते ।
३ चित्(चेत्) सञ्चेतने चेतयते ।
४ तर्ज् तर्जने तर्जयते ।
५ दश्(दंश्) दशने दंशयते । 
६ भर्त्स्  भर्त्सने भर्त्सयते ।
७ भू प्राप्तौ भावयते ।
८ मन्त्र् गुप्तपरिभाषणे मन्त्रयते ।
९ मृग् अन्वेषणे मृगयते ।
१० विद् चेतनाख्याननिवासेषु वेदयते ।
११ स्पश् संश्लेषणे स्पाशयते ।
१२ लल् ईप्सायाम् लालयते ।

।।उभयपदिन:।।
१३ चुर् स्तेये चोरयति, चोरयते 
१४ अङ्क पदे लक्षणे च अङ्कयति, अङ्कयते 
१५ अर्ह् पूजायां अर्हयति, अर्हयते 
१६ अवधीर् अवधीरणे अवधीरयति ते 
१७ ईर् क्षेपे ईरयति ते 
१८ कथ् वाक्यप्रबन्धे कथयति ते 
१९ कर्ण्  भेदने कर्णयति ते
  आ+कर्न  आकर्णयति ते 
२० कल्  गतौ संख्याने च कलयति ते 
२१ क्रत्(कीर्त्) संशब्दने कीर्तयति ते 
२२ कृप सामर्थ्ये करपयति ते 
२३ क्रन्द क्रन्द-सातत्ये  क्रन्दयति ते
२४ क्षप् प्रेरणे क्षपयति ते
२५ क्षल् शौचकर्मनि क्षालयति ते 
२६ खण्द् भेदने खण्डयति ते
२७ गण् संक्याने गणयति ते
२८ गर्ज् शब्दे गर्जयति ते
२९ गर्ह् विनिन्दने गर्हयति ते
३० गवेष् मार्गणे गवेषयति ते
३१ गुण्ठ् वेष्टने गुणठ्यति ते
३२ गुप् भाषायाम भासने च गोपयति ते 
३३ ग्रन्ध् बन्धने, सन्दर्भे च  ग्रन्थयति ते
३४ ग्रस् ग्रहणे ग्रसयति ते
३५ घुष् बिशब्दने घोषयति ते 
३६ चित्र् चित्रकरणे चित्रयति ते
३७ चिन्त् स्मृत्याम् चिन्तयति ते
३८ चिह्न लक्षणे(सौत्रधातु:) चिह्नयति ते
३९ चुद् संचोदने चोदयति ते
४० चूर्ण् प्रेरणे संकोचने च चूर्णयति ते 
४१ छद् आवरणे छादयति ते
४२ छर्द् वमने छरदयति ते
४३ ज्ञप् ज्ञाने ज्ञापने च ज्ञापयति ते
४४ ज्ञा(ज्ञाप्) आ नियोगे आज्ञापयति ते
४५ तड् आघाते ताडयति ते
४६ तर्क् वित्रके तर्कयति ते
४७ तप् सन्तापे तापयति ते
४८ तुल् उन्माने तोलयति ते
४९ तृप् तृप्तौ तर्पयति ते
५० दण्ड् दमने दण्डयति ते
५१ धू( धून्) कंपने धुनयति ते
५२ धृ धारणे धारयति ते
५३ ध्वन् अव्यक्ते शब्दे ध्यनयति ते
५४ पार् कर्मसमाप्तौ पारयति ते 
५५ पाल् रक्षणे पालयति ते
५६ पीद् अवगाहने पीडयति ते
५७ पूज् पूजायाम पूजयति ते
५८ पूर् आप्यायने पूरयति ते
५९ पृ पूरणे पारयति ते
६० प्रथ् प्रख्याने प्रथयति ते
६१ प्री(प्रीण्) तर्पने प्रीणयति ते
६२ णक्ष् अदने भक्षयति ते
६३ भू अवकल्कने भावयति ते
६४ भूष् अलङ्‌कारे भूषयति ते
६५ मण्ड् भूषायां मण्डयति ते
६६ मन्त्र् गुप्तभाषणे मन्त्रयति ते
६७ मह् पूजायाम् महयति ते
६८ मह् पूजायाम् मानयति ते
६९ मार्ग् अन्वेषणे मार्गयति ते 
७० मार्ज् शुद्धौ मार्जयति ते 
७१ मिश्र् सम्पर्के मिश्रयति ते
७२ मुच् प्रमोचने मोचयति ते
७३ मुद् संसर्गे मोदयति ते
७४ मुत्र् प्रस्रवणे मूत्रयति ते
७५ मृज् शौचे मार्जयति ते
७६ मरष् ततक्षायाम् मर्षयति ते
७७ युज् संयमने योजयति ते
७८ रच् प्रतियत्ने रचयति ते
७९ रह् त्यागे रहयति ते
८० रुष् रोषे रोषयति ते 
८१ रूप् रूपक्रियायाम् रूपयति ते
८२ लक्ष् आलोचने लक्षयति ते
८३ लंघ् सीमातिक्रमे लंघयति ते
८४ लोक् दीप्तौ लोकयति ते
८५ लोच् दर्शने लोचयति ते 
८६ वच् परिभाषणे वाचयति ते
८७ वर्ध् पूरणे वर्धयति ते
८८ वद् सन्देशवचने वादयति ते
८९ वर्  ईप्सायाम् वरयति ते
९० वर्ण् गुणवचने वर्णयति ते
९१ वस् निवासे वसयति ते
९२ वीज् व्यजने वीजयति ते
९३ वृ आवरणे वारयति ते
९४ वृज् वर्जने वर्जयति ते
९५ व्यय् वित्तसमुत्सर्गे व्यययति ते
९६ व्रण् गात्रविचूर्णने व्रणयति ते
९७ शब्द् आविष्कारे शब्दयति ते
९८ शील् उपधारणे शीलयति ते
९९ श्रण् वि + दाने  विश्राणयति ते
१०० श्र्लिष् श्लेषणे श्लेषयति ते
१०१ सभाज् प्रीतिदर्शनयो: सभाजयति ते
१०२ सह् मर्षणे साहयति ते
१०३ सान्त्व् सामप्रयोगे सान्त्वयति ते
१०४ सुख् सुखक्रियायां सुखयति ते
१०५ सूद् क्षरणे सूदयति ते
१०६ स्पृह् ईप्सायाम् स्पृहयति ते
१०७ स्फुट् भेदने स्फोटयति ते
१०८  स्वाद् आस्वादे स्वादयति ते
१०९ हिंस् हिंसायाम् हिंसयति ते
११० ह्लप् व्यक्तायां वाचि ह्लपयति ते
।। इति चुरादिगण:।।

No comments:

Post a Comment