Tuesday, March 6, 2018

संस्कृत धातव: - १

संस्कृतभाषायां प्रायेण २२०० धातव: सन्ति। तेषाम् एकैकस्यापि धातो: दश लकारा: संभवन्ति ।
तेषु षट् लकारा: कालवाचका: चत्वार: प्रकारबोधका: । यथा -

षट् कालवाचका:


चत्वार: प्रकारबोधका:



एतेषाम् एकैकस्यापि लकारस्य स्थाने प्रथक् पुरूषप्रत्यया: भवन्ति । पुरुषाश्र्च त्रय: सन्ति -
प्रथमपुरुष:
मध्यमपुरुष:
उत्तमपुरुष:

पुरुषाणां प्रत्येकम त्रीणि वचनानि विद्यन्ते ।
एकवचनम् एकत्व बोधकम्
द्विवचनम् द्वित्व बोधकम्
बहुवचनम् बहुत्व बोधकम्

पुरुषप्रत्यया एव 'तिङ:' इत्युच्यन्ते । तिङां 'परस्मैपदम्', 'आत्मनेपदम्' इति द्वे पदे स्त: । केभ्यश्र्चन धातुभ्य: परस्मैपदमेव भवति, ते धातव: 'परस्मैपदिन;' इत्युच्यन्ते । केभ्यश्र्चन 'आत्मनेपदिन:' इत्युच्यन्ते । केभ्यश्र्चन उभयमपि पदं संभवति, ते 'उभयपदिन:' इत्युच्यन्ते ।।

परस्मैपदम् आत्मनेपदम् इत्यन्वर्थम संज्ञे । तथा हि पचनादिका क्रिया लोके परार्था आत्मार्था च संभवति । यत्र परस्य उपयोगाय क्रिया प्रवर्तते तत्र परस्मैपदम्; यत्र तु आत्मन उपयोगाय, तत्र आत्मनादं प्रयोक्तव्यम् इति व्यवस्था । यथा - मूद: पचति - परस्मैपदम्, राम: पचते - आत्मनेपदम् । परं तु व्यवस्थाॅ इयमद्यत्वे नाद्रियते । परस्मैपदम्, आत्मनेपदं च निर्विशेचं प्रयुज्यते काम: ।।

लकारा: सार्वधातुका:, आर्धधातुका:, इति द्वेधा विभक्ता:। लट्, लङ्, लोट्, विधिलिङ्‌ इत्येते चत्वार: सार्वधातुका: । अन्ये षट् आर्धधातुका: । तत्र सार्वधातुकेषु लकारेषु धातूनां प्रत्ययानाम च मध्ये विकरणाख्या; प्रत्यया: संयोज्यन्ते । तथा हि 'भवति' इत्यादौ अंशत्रयमस्ति - भू + अ+ति । 'भू' इति धातु:, 'अ' इति विकरणप्रत्यय:, 'ति' इति पुरुषप्रत्यय: ।।
विकरणप्रत्यया: दशविदा:। तेषां भेदमनुसरत्य धातव: दशसु गणेषु विभज्य पठिता; । तथा हि -



आर्धधातुकेषु लकारेषु विकरणनिमित्तको रूपभेदोनास्ति । 

आर्धधातुका: लकारा:
इदानीम् आर्धधातुकेषु लकारेषु रूपाणि उच्यन्ते ।
ते च लकारा: यथा - 
१. लुट्
२.लृट्
३. लृङ्
४. आशीर्लिङ्
५. लिट्
६. लिङ्
आर्धधातुकेषु लकारेषु विकरणभेदो नास्ति । सर्वेभ्योऽपि धातुभ्य: तत्तत्प्रत्ययानां योजनेन रूपाणि निष्पाद्यन्ते । किन्तु आर्धधातुकेषु इडागमकृतो विशेषोऽस्ति । तथा हि- केषाश्र्चित् धातूनां प्रत्ययानां च मध्ये 'इ' इत्येतदक्षरं संयोज्यते । इदमेवाक्षरम् 'इट्' इति व्यपदिश्यते । येषाम धातूनां 'इट्' भवति, ते 'सेट:, येषां न भवति ते 'अनिट:' इति च अभिधीयन्ते । केषाञ्चित् धातूनाम् अयम् इट् विकल्पेन भवति । ते ' वेट:' इत्युच्यन्ते ।।
सेट् - स+इट्  भू - भविता, अर्च् - अर्चिता
अनिट् - अन् +इट् लभ् - लब्धा
 वेट्  - वा + इट् स्यन्द् - स्यन्दिता, स्यन्ता
आदेश 
अस् भू - बभूव ।।

ब्रू वच् - उवाच ।।

No comments:

Post a Comment