Wednesday, March 7, 2018

संस्कृत धातव: -११

अष्टमगण: तनादि:
 अष्टमगणे - तनादौ १० धातव: सन्ति ।
अत्र केवलं परस्मैपदिनो धातव: न सन्ति ।

।। आत्मनेपदिन:।।
 धातु:    अर्थ:  लट् प्र.पु.ए.व.
१ मन् अवबोधने मनुते ।
२ वन् याचने वनुते ।

।।उभयपदिन: ।।
३ तन् विस्तारे तनोति तनुते ।
४ सन् दाने सनोति सनुते ।
५ क्षण् हिंसायाम् क्षणोति, क्षणुते ।
६ क्षिण् हिंसायाम् क्षिणोति क्षिणुते ।
७ ऋण् गतौ ऋणोति ऋणुते ।
८ घृण् दीप्तौ घृणोति, घृणुते ।
९ तृण् अदने तृणोति , तृणुते ।
कृ करणे करोति कुरुते ।
।। इति तनादिगण:।।
---
 नवमगण: क्र्यादि:
नवमगणे क्र्यादौ ६१ धातव: सन्ति ।
क्री + ना + ति - क्रीणाति ।
तत्र प्रधानभूता: धातव: यथा - 

परस्मैपदिन: 
      धातु:    अर्थ:  लट् प्र.पु.ए.व.
१ अश् भोजने अश्र्नाति ।
२ क्लिस् विबाधने क्लिश्र्नाति ।
३ क्षी हिंसायाम् क्षीणाति, क्षिणाति ।
४ क्षुभ् संचलने क्षुभ्राति ।
५ गृ शब्दे गृणाति ।
६ ग्रन्थ् सन्दर्भे ग्रथ्नाति ।
७ दृ विदारणे दृणाति ।
८ पुष् पुष्टौ पुष्णाति ।
९ पर पालनपूरणयो: पृणाति ।
१० बन्ध् (बद्) बन्धने बध्नाति ।
११ मन्थ् (मत्) विलोडने मथ्नाति ।
१२ मुप् स्तेये मुप्नाति ।
१३ ली श्र्लेषणे लिनाति ।
१४ स्तम्भ् रोधणे धारणे च स्तभ्नाति ।
१५ व्री वरणे व्रीणाति ।

।।आत्मनेपदिन: 
१६ वृ संभक्तौ वृणीते ।

।।उभयपदिन; ।।
१७ क्री द्रव्यविनिमये क्रीणाति क्रीणीते 
१८ ग्रह् उपादाने गृह्णाति गृह्णीते ।
१९ धू कम्पने धुनाति धुनीते ।
२० पू पवने पुनाति पुनीते ।
२१ प्री तर्पणे प्रीणाति प्रीणीते ।
२२ लू लवने लुनाति लुनीते ।
२३ स्तृ आच्छादने स्तृणाति स्तृणिते ।
२४ वर वरणे वृणाति वृणीते ।
२५ मी हिंसायाम् मीनाति मीनीते ।
२६ यु बन्धने युनाति युनीते ।
२७ ज्ञा अवबोधने जानाति जानीते ।
।। इति क्र्यादिगण: ।।

No comments:

Post a Comment