Sunday, September 24, 2017

रेखागणितम् - प्रथमोध्याय: सप्तदशं क्षेत्रम्

अथ सप्तदशं क्षेत्रम् ।

तत्र त्रिभुजस्य कोणद्वययोग: समकोणद्वययोगादल्पो भवति ।


यथा अबजत्रिभुजे बजकोणौ समकोणद्वयान्न्यूनौ स्त: ।
कुत: । 
बजभुज: दपर्यन्तं नेय: ।
अजदकोणअजबकोणयोर्योग: समकोणद्वयसमानोऽस्ति ।
अजदकोणस्तु बकोणादधिक: । पुनर्बकोण अजबकोणयोरयोग: समकोणद्वयान्न्यूनोऽस्ति ।
एवमन्यकोणेष्वपि ज्ञेयम् । तदेवमुपपन्नं यथोक्तम् ।

No comments:

Post a Comment